(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
9.7. अध्यायः 007
Mahabharata - Shalya Parva - Chapter Topics
उभयसैन्यानां व्यूहरचनापूर्वकं द्वन्द्वीभूय युद्धाय निर्गमनम्॥ 1 ॥


Mahabharata - Shalya Parva - Chapter Text

सञ्जय उवाच। 9-7-0x(5096)(60483)
व्यतीतायां रजन्यां तु राजा दुर्योधनस्तदा।
अब्रवीत्तावकान्सर्वान्सन्नह्यन्तां महारथाः॥ 9-7-1(60484)
राज्ञश्च मतमाज्ञाय समनह्यत सा चमूः।
अयोजयन्रथांस्तूर्णं पर्यधावंस्तथा परे॥ 9-7-2(60485)
अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः।
हयानास्तरणोपेतांश्चक्रुरन्ये सहस्रशः॥ 9-7-3(60486)
वादित्राणां च निनदः प्रादुरासीद्विशाम्पते।
योधानां सैन्यमुख्यानामन्योन्यं प्रतिगर्जताम्॥ 9-7-4(60487)
ततो बलानि सर्वाणि हतशिष्टानि भारत।
सन्नद्धानि व्यदृश्यन्त मृत्युं कृत्वा निवर्तनम्॥ 9-7-5(60488)
शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः।
प्रविभज्य बलं सर्वमनीकेषु व्यवस्थिताः॥ 9-7-6(60489)
ततः सर्वे समागम्य पुत्रेण तव सैनिकाः।
कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौबलः।
अन्ये च पार्थिवाः शेषाः समयं चक्रुरादृताः॥ 9-7-7(60490)
`अद्याचार्यसुतो द्रौणिर्नैको युध्येत शत्रुभिः'।
न न एकेन योद्धव्यं कथञ्चिदपि पाण्डवैः॥ 9-7-8(60491)
यो ह्येकः पाण्डवैर्युध्येद्यो वा युध्यन्तमुत्सृजेत्।
स पञ्चभिर्भवेद्युक्तः पातकैश्चोपपातकैः।
अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च नः॥ 9-7-9(60492)
एवं ते समयं कृत्वा सर्वे तत्र महारथाः।
मद्रराजं पुरस्कृत्य तूर्णमभ्यद्रवन्परान्॥ 9-7-10(60493)
तथैव पाण्डवा राजन्व्यूह्य सैन्यं महारणे।
अभ्ययुः कौरवान्युद्धे योत्स्यमानाः समन्ततः॥ 9-7-11(60494)
ततो बलं समभवत्क्षुब्धार्णवसमस्वनम्।
समुद्भूतार्णवाकारमुदीर्णरथकुञ्जरम्॥ 9-7-12(60495)
धृतराष्ट्र उवाच। 9-7-13x(5097)
द्रोणस्य चैव भीष्मस्य राधेयस्य च मे श्रुतम्।
पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे॥ 9-7-13(60496)
कथं रणे हतः शल्यो धर्मराजेन सञ्जय।
भीमेन च महाबाहुः पुत्रो दुर्योधनो मम॥ 9-7-14(60497)
सञ्जय उवाच। 9-7-15x(5098)
क्षयं मनुष्यदेहानां तथा नागाश्वसङ्क्षयम्।
शृणु राजन्स्थिरो भूत्वा सङ्ग्रामं शंसतो मम॥ 9-7-15(60498)
आशा बलवती राजन्पुत्राणां तेऽभवत्तदा॥ 9-7-16(60499)
हते द्रोणे च भीष्मे च सूतपुत्रे च पातिते।
शल्यः पार्थान्रणे सर्वान्निहनिष्यति मारिष॥ 9-7-17(60500)
तामाशां हृदये कृत्वा समाश्वस्य च भारत।
मद्रराजं च समरे समाश्रित्य महारथम्।
नाथवन्तं तदाऽऽत्मानममन्यत सुतस्तव॥ 9-7-18(60501)
यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे।
तदा राजन्धार्तराष्ट्रान्प्रविवेश महद्भयम्॥ 9-7-19(60502)
तान्समाश्वास्य तु तदा मद्रराजः प्रतापवान्।
व्यूह्य व्यूहं महाराज सर्वतोभद्रमृद्धिमत्॥ 9-7-20(60503)
प्रत्युद्ययौ रणे पार्थान्मद्रराजः प्रतापवान्।
विधून्वन्कार्मुकं चित्रं भारघ्नं वेगवत्तरम्।
रथप्रवरमास्थाय सैन्धवाश्वं महारथः॥ 9-7-21(60504)
तस्य सूतो महाराज रथस्थोऽशोभयद्रथम्।
स तेन संवृतो वीरो रथेनामित्रकर्शनः।
तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत्॥ 9-7-22(60505)
प्रयाणे मद्रराजोऽभून्मुखं व्यूहस्य दंशितः।
मद्रकैः सहितो वीरैः कर्णपुत्रैश्च दुर्जयैः॥ 9-7-23(60506)
सव्येऽभूत्कृतवर्मा च त्रिगर्तैः परिवारितः।
गौतमो दक्षिणे पार्श्वे शकैश्च यवनैः सह॥ 9-7-24(60507)
अश्वत्थामा पृष्ठतोऽभूत्काम्भोजैः परिवारितः।
दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुङ्गवैः॥ 9-7-25(60508)
हयानीकेन महता सौबलश्चापि संवृतः।
प्रययौ सर्वसैन्येन कैतव्यश्च महारथः॥ 9-7-26(60509)
पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिन्दमाः।
त्रिधाभूता महाराज तव सैन्यमुपाद्रवन्॥ 9-7-27(60510)
धृष्टद्युम्नः शिखण्डी च सात्यकिस्च महारथः।
शल्यस्य वाहिनीं हन्तुमभिदुद्रुवुराहवे॥ 9-7-28(60511)
ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः।
शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभः॥ 9-7-29(60512)
हार्दिक्यं च महेष्वासमर्जुनः शत्रुपूगहा।
संशप्तकगणांश्चैव वेगितोऽभिविदुद्रुवे॥ 9-7-30(60513)
गौतमं भीमसेनो वै सोमकाश्च महारथाः।
अभ्यद्रवन्त राजेनद्र जिघांसन्तः परान्युधि॥ 9-7-31(60514)
माद्रीपुत्रौ तु शकुनिमुलूकं च महारथम्।
ससैन्यौ सहसैन्यौ तावुपतस्थतुराहवे॥ 9-7-32(60515)
तथैवायुतशो योधास्तावकाः पाण्डवान्रणे।
अभ्यवर्तन्त सङ्क्रुद्धा विविधायुधपाणयः॥ 9-7-33(60516)
धृतराष्ट्र उवाच। 9-7-34x(5099)
हते भीष्मे हमेष्वासे द्रोणे कर्णे जयद्रथे।
कुरुष्वल्पावशिष्टेषु पाण्डवेषु च संयुगे॥ 9-7-34(60517)
संरब्धेषु च पार्थेषु पराक्रान्तेषु सञ्जय।
मामकानां परेषां च किं शिष्टमभवद्बलम्॥ 9-7-35(60518)
सञ्जय उवाच। 9-7-36x(5100)
यथा वयं परे राजन्युद्धाय समुपस्थिताः।
यावच्चासीद्बलं शिष्टं सङ्ग्रामे तन्निबोध मे॥ 9-7-36(60519)
एकादश सहस्राणि रथानां भरतर्षभ।
दश दन्तिसहस्राणि सप्त चैव शतानि च॥ 9-7-37(60520)
पूर्णे शतसहस्रे द्वे हयानां तत्र भारत।
पत्तिकोट्यस्तथा तिस्रो बलमेतत्तवाभवत्॥ 9-7-38(60521)
रथानां षट्सहस्राणि षट्सहस्राश्च कुञ्जराः।
दश चाश्वसहस्राणि पत्तिकोटी च भारत॥ 9-7-39(60522)
एतद्बलं पाण्डवानामभवच्छेषमाहवे।
एत एव समाजग्मुर्युद्वाय भरतर्षभ॥ 9-7-40(60523)
एवं विभज्य राजेन्द्र मद्रराजमते स्थिताः।
पाण्डवान्प्रत्युदीयाम जयगृद्धाः प्रमन्यवः॥ 9-7-41(60524)
तथैव पाण़्डवाः शूराः समरे जितकाशिनः।
उपयाता नरव्याघ्राः पाञ्चालाश्च यशस्विनः॥ 9-7-42(60525)
एवमेते बलौघेन परस्परवधैषिणः।
उपयाता नरव्याघ्राः पूर्वां सन्ध्यां प्रति प्रभो॥ 9-7-43(60526)
ततः प्रववृते युद्धं घोररूपं भयानकम्।
तावकानां परेषां च निघ्नतामितरेतरम्॥ ॥ 9-7-44(60527)

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि सप्तमोऽध्यायः॥ 7 ॥

Mahabharata - Shalya Parva - Chapter Footnotes
9-7-39 पत्तिकोटी इति द्विवचनम्॥ 9-7-7 सप्तमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.